Skip to content
अथ बगलामुखी शतनामस्तोत्रम्
॥नारद उवाच॥
भगवन् देवदेवेश सृष्टिस्थितिलयात्मकम् । शतमष्टोत्तरं नाम्नां बगलाया वदाऽधुना ॥1॥
॥श्री भगवानुवाच॥
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् । पीताम्बर्याः महादेव्याः स्तोत्रं पापप्रणाशनम् ॥2॥
यस्य प्रपठनात् सद्यो वादी मूको भवेत् क्षणात् । रिपूणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम् ॥3॥
ॐ अस्य पीताम्बर्य्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः, श्रीपीताम्बरी देवता, श्रीपीताम्बरीप्रीतये जपे विनियोगः ।
ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी । बहुला वेदमाता च महाविष्णुप्रसूरपि ॥1॥
महामत्स्या महाकूर्म्मा महावाराहरूपिणी । नरसिंहप्रिया रम्या वामना वटुरूपिणी ॥2॥
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता । कृष्णा कपर्दिनी कृत्या कलहा कलविकारिणी ॥3॥
बुद्धिरूपा बुद्धिभार्या बौद्धपाखण्डखण्डिनी । कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी ॥4॥
कोटिसूर्यप्रतीकाशा कोटिकन्दर्पमोहिनी । केवला कठिना काली कला कैवल्यदायिनी ॥5॥
केशवी केशवाराध्या किशोरी केशवस्तुता । रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥6॥
नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता । नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता ॥7॥
नागिनी नागजननी नागराजप्रवन्दिता । नागेश्वरी नागकन्या नागरी च नगात्मजा ॥8॥
नगाधिराजतनया नगराजप्रपूजिता । नवीना नीरदा पीता श्यामा सौन्दर्यकारिणी ॥9॥
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी । सुन्दरी सौभगा सौम्या स्वर्णभा स्वर्गतिप्रदा ॥10॥
रिपुत्रासकरी रेखा शत्रुसंहारकारिणी । भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥11॥
रागद्वेषकरी रात्री रौरवध्वंसकारिणी । यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥12॥
लङ्कापतिध्वंसकरी लङ्केशरिपुवन्दिता । लङ्कानाथकुलहरा महारावणहारिणी ॥13॥
देवदानवसिद्धौषपूजिता परमेश्वरी । पराऽणुरूपा परमा परतन्त्रविनाशिनी ॥14॥
वरदा वरदाऽऽराध्या वरदानपरायणा । वरदेशप्रिया वीरा वीरभूषणभूषिता ॥15॥
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना । वलदा पीतवसना पीतभूषणभूषिता ॥16॥
पीतपुष्पप्रिया पीतहरा पीतस्वरूपिणी । इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥17॥
यः पठेत् पाठयेद् वापि शृणुयाद् वा समाहितः । तस्य शत्रुः क्षयं सद्यो याति वै नात्र संशयः ॥18॥
प्रभातकाले प्रयतो मनुष्यः पठेत् सुभक्तया परिचिन्त्य पीताम् । द्रुतं भवेत् तस्य समस्त वृद्धि विनाशमायाति च तस्य शत्रुः ॥19॥
॥ इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥
Post Views: 14